Here is a hymnal prayer offered by Akrura to Krishna wherein it is stated that Brahman alone appears as many beings in creation. Just as the elements earth, etc. are, being the cause of creation, appear as many in creation. The Cause inheres in all its effects. There is non-difference between the cause and effect.
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४८
https://sa.wikisource.org/s/ul5
आत्मसृष्टमिदं विश्वं अन्वाविश्य स्वशक्तिभिः ।
ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९ ॥
( मिश्र )
यथा हि भूतेषु चराचरेषु
मह्यादयो योनिषु भान्ति नाना ।
एवं भवान्केवल आत्मयोनिषु
आत्मात्मतन्त्रो बहुधा विभाति ॥ २० ॥
Sridhari commentary: 10.48.19,20: The Lord alone appears as many beings in creation:
ननु प्रत्यक्षादिसिद्धं कथं नास्तीत्युच्यतेऽत आह । आत्मसृष्टमिति । हे ब्रह्मन्परमेश्वर । ब्रह्मेति वा पाठः । रज आदिस्वशक्तिभिरात्मनैव सृष्टमिदं विश्वमन्वाविश्य कारणत्वादननुप्रविष्टोऽप्यनुप्रविश्येव स्थितः श्रुतप्रत्यक्ष गोचरं यथा भवति तथा बहुधा भवानेव प्रतीयते ।। १९ । एकस्यैव बहुधा प्रतीतिं सदृष्टांतमाह । यथा हीति । योनिषु स्वस्यैव रूपांत रेणाभिव्यक्तिस्थानेषु चराचरेषु भूतेषु यथा महीप्रमुखानि कारणान्येव नाना भाँति तथात्मयोनिषु स्वकारणेषु भूतभौतिकेषु भवान्केवलोsपि बहुधा विभाति ।… 20
Om