Quantcast
Channel: Advaita – Adbhutam's Blog
Viewing all articles
Browse latest Browse all 252

Pot-space analogy for Aikya/abheda

$
0
0

Pot-space analogy for Aikya/abheda

श्रीगुरुभ्यो नमः

शास्त्रेषु घटाकाशदृष्टान्तोऽतिप्रसिद्ध ऐक्यमवबोधयितुं जीवपरयोः | अद्वैतभाष्यतदनुसारीतरग्रन्थेषु त्वयं दृष्टान्तो बहुवारं व्यापकतया प्रयुज्यत ऐक्यख्यापनार्थमेव | अत्र कानिचन ग्रन्थप्रमाणवाक्यानि उदाह्रियन्ते यत्र तेषामद्वैतभावस्तु सुस्पष्टः | विशिष्टव्याख्याननिरपेक्षतयैव अर्थग्र्हणं सुशकमिति न विवरणदाने प्रयासः क्रियते |

Srigurubhyo namah

There are many passages across the Shruti, Smriti, Puranas where the pot-space and Infinite space analogy is stated to drive home the identity (aikyam/abheda) of the jiva (post-space) and Paramatman (infinite / unconditioned space). In the Advaita Bhashya and other texts we have this analogy stated profusely to convey the same theme: jivatma-paramatma identity/aikyam/abheda.

Given below are many such instances from texts such as the Bhagavatam, other Puranas, Upanishads, etc. In almost all cases the statements themselves are unambiguous about the identity/aikyam. Even in very rare cases where such identity is not explicit, by the other accompanying analogies the implicit identity conveyed by the analogy is beyond any doubt. Other schools have to contend with this analogy since aikyam/abheda is not their doctrine.

Translation of the verses or the commentaries is not given in every case. The theme is quite clear. With respect to the Bhagavatam, the commentary of Sridhara swamin is given in most cases.

Bhagavatam:

श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः १५
https://sa.wikisource.org/s/e63

न ह्यन्तरं भगवतीह समस्तकुक्षौ ।
आत्मानमात्मनि नभो नभसीव धीराः ।
पश्यन्ति यत्र युवयोः सुरलिङ्‌गिनोः किं ।
व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥ 3.15.33

श्रीधरव्याख्यानम् –
भयशंकाबीजं च भेदः स च कस्याप्यस्मिन्नास्तीत्याहुः । न हीति । समस्तं विश्वं कुक्षौ यस्य यत्र यदेह भगव धीरा विद्वांस आत्मनोऽतरं भेदं न पश्यंति किं त्वस्मिन्परमात्मन्यात्मानमंतर्भूतं पश्यंति महाकाशे घटाकाशमिव तदा यथा- ऽन्यस्य राजादेरुदरभेद्युदरभेदयुक्तं भयं भवति तथाऽस्य श्रीहरेस्तादृग्भयं यतो येन कारणेन सुरवेषधारिणोर्युवयोर्विशेषेणोत्पा दितं तत्किम् । न किंचिदित्यर्थः ॥ ३३ ॥

श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ५
https://sa.wikisource.org/s/tsx

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥

श्रीधरस्वामिविरचिता –

यस्माद्देहोपाधिकोऽयमात्मनो जन्मादिसंसारभ्रमस्तस्मादुपाधिनिवृत्तौ मुच्यत इति सदृष्टांतमाह । घट इति । यथा घटोपाधेः पूर्वमिव पुनर्घटे भिन्ने तदंतर्वर्त्यवकाश आकाश एव स्याद्यथा । एवं देहे मृते तत्त्वज्ञानेन लीने सति ॥ ५ ॥

When the ghata breaks up, the space of the limited by the pot ‘becomes’ the (great) space, just as there was only one sky before the formation of the pot. Similarly, when a body dies, that (free) Atman ‘becomes’ Brahman.

Bhagavatam:

ज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ 54 ॥ 1.13.55

Sridhari commentary:

  • समाधिमाह विज्ञानेति द्वाभ्याम् । आत्मानं मनोऽहंकारास्पदं स्थूलदेहाद्वियोग्य विज्ञानात्मनि बुद्धौ संयोज्यैकीकृत्य तं च विज्ञानात्मानं दृश्यांशाद्वियोज्य क्षेत्रज्ञे द्रष्टरि प्रविलाप्य तं च क्षेत्रज्ञ द्रष्ट्रंशाद्वियोज्याधार आश्रयसंज्ञे ब्रह्मणि प्रविलाप्य घटांबर घटोपाधेर्वियोज्य यथा महाकाशे प्रविलाप्यते तद्वत् ॥ ५४ ॥ * *

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥ 11.18.33 भागवतम्

Verse 10.54.44 Bhagavatam:

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ४४ ॥

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०२१-०२५
https://sa.wikisource.org/s/2i49

एको नानास्वरूपोऽभूद् घटाकाश इव स्फुटम् ।
जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते ॥१६॥

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०५१-०५५
बालके । सोऽपि विह्वलतां ज्ञात्वा पुरवासिजनस्य ह ॥१७॥ एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् । जलकुम्भगतो यद्वत्सविताऽनेकरूपवान् ॥१८॥

अवधूतगीता
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः। दृढबोधश्च धीरश्च स गच्छेत्परमं पदम्॥२४॥ घटे भिन्ने घटाकाश आकाशे लीयते यथा। देहाभावे तथा योगी स्वरूपे परमात्मनि॥२५॥ उक्तेयं कर्मयुक्तानां

जाबालदर्शनोपनिषत्/खण्डः १०
मायया न स्वरूपतः ॥ २॥ तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥ तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना…

अवधूतगीता
सुलीनं भेदवर्जितम्। शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे॥३१॥ न घटो न घटाकाशो न जीवो न जीवविग्रहः। केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम्॥३२॥ सर्वत्र

अध्यात्मोपनिषत्
मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः । त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ ६ ॥ घटाकाशं महाकाश इवात्मानं परात्मनि । विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ ७ ॥..

Vishnudharma:

विष्णुधर्मः/अध्यायाः १०१-१०९
https://sa.wikisource.org/s/3gay

योगसेवानिरोधेन प्रलीने तत्र चेतसि |
पुरुषः कारणाभावाद्भेदम् नैवानुपश्यति || ४३ ||
परात्मनोर्मनुष्येन्द्र विभागो(S)ज्ञानकल्पितः | (
क्षये तस्यात्मपरयोर्विभागाभाग एव हि || ४४ ||
परमात्मात्मनोर्योऽयमविभागः परन्तप |
स एव परमो योगः समासात् कथितस्तव || ४५ ||
यथा कमण्डलौ भिन्ने तत्तोयम् सलिले गतम् | (Water in a Kamandalu one with unconfined water)
व्रजत्यैक्यम् तथैवैतदुभयम् कारणक्षयात् || ४६ ||
यथाऽग्निरग्नौ सन्क्षिप्तः समानत्वम् अनुव्रजेत् | (Fire and fire are non-different)
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः || ४७ ||
न एवम् ब्रह्मात्मनोर्योगादेकत्वमुपपन्नयोः |
भेदः कलशाकाशनभसोरिव जायते || ४८ || (space in a pot and infinite space)
प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान् |
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते || ४९ ||
घटध्वम्से घटाकाशम् न भिन्नम् नभसो यथा | (space in pot….)
ब्रह्मणा हेयविध्वम्से विष्ण्वाख्येन पुमाम्स्तथा || ५० ||
भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना | (air in bellows one with the all-pervading air)
क्षीणपुण्याघबन्धस्तु तथाऽऽत्मा ब्रह्मणा सह || ५१ ||

With so many analogies, the Vishnudharma declares the absolute identity of the jiva and Brahman.

https://jainqq.org/booktext/Descriptive_Catalogue_of_Sanskrit_Manuscripts_in_Madras_Vol_18/020203

आत्मनो ब्रह्मणो भेदमनन्तं कः करिष्यति ।
परात्मनोर्मनुष्येन्द्र विभागोऽज्ञानकल्पितः ॥’ इति ।

अग्निपुराणम्/अध्यायः ३८२
https://sa.wikisource.org/s/4r1

घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् ।
मुक्तो जीवो ब्रह्मणैवं सद्‌ब्रह्म ब्रह्म वै भवेत् ।। ३८२.३५ ।।

Ghatakasa – Mahakasha example is mentioned to convey this unity. A liberated soul remains as Brahman. Ghatakasa is from pot that is a limiting adjunct. In fact, space did not get any real limitation. When the body is destroyed, the Atman in it remains one with the Para Brahman. This union is not any action. No real change happens. Just the upadhi is removed.

Again the Agni purana:

https://sa.wikisource.org/s/4qv
आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैको ह्यनेकेषु जलाधारेष्विवांशुमान् ।। ३७६.१४ ।।

Just as the one infinite space is as though divided by many different names (as pot-space, room-space, etc.), the same moon is appearing as many, being reflected in many reservoirs.

Analogy for avaccheda (limitation) and pratibimba (reflection) in the Yajnavalkya Smriti:

याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/यतिधर्मप्रकरणम्
https://sa.wikisource.org/s/3ob

आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।

साङ्ख्यकारिका (माठरवृत्तिसहिता)

https://sa.wikisource.org/s/3g3g

अत्रोदाहृतमिदं वाक्यम् –

“देहे मोहाश्रये भग्ने युक्तः स परमात्मनि ।
कुम्भाकाश इवाकाशे लभते चैकरूपताम्” ॥

(A verse is cited in the commentary to the Sankhya Karika with the same analogy of pot-space.)

The above is a sample, in an assortment of scriptural texts, for the extremely popular pot-space analogy conveying the aikyam/abheda of jivatma and paramatma.

Om Tat Sat


Viewing all articles
Browse latest Browse all 252

Trending Articles